देशः पुरं निवासश्च सभा वेश्मासनानि च। यद्यदीशमन्यत्वं तत्तच्छ्रेयस्करं मतम्॥ — वास्तुसारसंग्रह
खातं भूमिपरीक्षणे करमितं तत्पूरयेन्मृदा, हीने हीनफलं समे समफलं लाभो रजोवर्धने।
तत्कृत्वा जलपूर्णमाशतपदं गत्वा परीक्ष्यं पुनः, पादोनेऽर्धविहीनकेऽथ निभृते मध्याधमेष्टावनी॥ शिल्पदीपकम्